नेत्रबस्तिप्रमाणप्रविभागचिकित्सितम्

श्लोक 1-2

अथातो नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-4

तत्र स्नेहादीनां कर्मणां बस्तिकर्म प्रधानतममाहुराचार्याः |
कस्मात्? अनेककर्मकरत्वाद्बस्तेः; इह खलु  बस्तिर्नानाविधद्रव्यसंयोगाद्दोषाणां संशोधनसंशमनसङ्ग्रहणानि  करोति, क्षीणशुक्रं वाजीकरोति, कृशं बृंहयति, स्थूलं कर्शयति, चक्षुः  प्रीणयति, वलीपलितमपहन्ति, वयः स्थापयति ||३||

शरीरोपचयं वर्णं बलमारोग्यमायुषः |
कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ||४||

श्लोक 5

तथा ज्वरातीसारतिमिरप्रतिश्यायशिरोरोगाधिमन्थार्दिताक्षेपकपक्षा-घातैकाङ्गसर्वाङ्गरोगाध्मानोदर-योनिशूलशर्कराशूलवृद्ध्युपदंशानाहमूत्रकृच्छ्रगुल्मवातशोणितवात-मूत्रपुरीषोदावर्त-शुक्रार्तवस्तन्यनाशहृद्धनुमन्याग्रहशर्कराश्मरीमूढगर्भप्रभृतिषु  चात्यर्थमुपयुज्यते ||५||

श्लोक 6

भवति चात्र-
बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते |
संसर्गे सन्निपाते च बस्तिरेव हितः सदा ||६||

श्लोक 7-9

तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि  कनिष्ठिकानामिकामध्यमाङ्गुलिपरिणाहान्यग्रेऽध्यर्धाङ्गुलद्व्यङ्गु-लार्धतृतीयाङ्गुलसन्निविष्टकर्णिकानि  कङ्कश्येनबर्हिणपक्षनाडीतुल्यप्रवेशानि मुद्गमाषकलायमात्रस्रोतांसि  विदध्यान्नेत्राणि |
तेषु चास्थापनद्रव्यप्रमाणमातुरहस्तसम्मितेन प्रसृतेन सम्मितौ प्रसृतौ द्वौचत्वारोऽष्टौ च विधेयाः ||७||

वर्षान्तरेषु नेत्राणां बस्तिमानस्य चैव हि |
वयोबलशरीराणि समीक्ष्योत्कर्षयेद्विधिम् ||८||

पञ्चविंशतेरूर्ध्वं द्वादशाङ्गुलं, मूलेऽङ्गुष्ठोदरपरीणाहम्, अग्रे  कनिष्ठिकोदरपरीणाहम्, अग्रे त्र्यङ्गुलसन्निविष्टकर्णिकं,  गृध्रपक्षनाडीतुल्यप्रवेशं, कोलास्थिमात्रछिद्रं,  क्लिन्नकलायमात्रछिद्रमित्येके; सर्वाणि मूले बस्तिनिबन्धनार्थं  द्विकर्णिकानि |
आस्थापनद्रव्यप्रमाणं तु विहितं द्वादशप्रसृताः |
सप्ततेस्तूर्ध्वं नेत्रप्रमाणमेतदेव, द्रव्यप्रमाणं तु द्विरष्टवर्षवत् ||९||

श्लोक 10

मृदुर्बस्तिः प्रयोक्तव्यो विशेषाद्बालवृद्धयोः |
तयोस्तीक्ष्णः प्रयुक्तस्तु बस्तिर्हिंस्याद् बलायुषी ||१०||

श्लोक 11

(व्रणनेत्रमष्टाङ्गुलं मुद्गवाहिस्रोतः; व्रणमवेक्ष्य यथास्वं स्नेहकषाये  विदधीत) ||११||

श्लोक 12

तत्र नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारमयानि  श्लक्ष्णानि दृढानि गोपुच्छाकृतीन्यृजूनि गुटिकामुखानि च ||१२||

श्लोक 13-14

बस्तयश्च बन्ध्या मृदवो नातिबहला दृढाः प्रमाणवन्तो  गोमहिषवराहाजोरभ्राणाम् ||१३||

नेत्रालाभे हिता नाडी नलवंशास्थिसम्भवा |
बस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं घनम् ||१४||

श्लोक 15-17

बस्तिं निरुपदिग्धं तु शुद्धं सुपरिमार्जितम् |
मृद्वनुद्धतहीनं च मुहुः स्नेहविमर्दितम् ||१५||

नेत्रमूले प्रतिष्ठाप्य न्युब्जं तु विवृताननम् |
बद्ध्वा लोहेन तप्तेन चर्मस्रोतसि निर्दहेत् ||१६||

परिवर्त्य ततो बस्तिं बद्ध्वा गुप्तं निधापयेत् |
आस्थापनं च तैलं च यथावत्तेन दापयेत् ||१७||

श्लोक 18

तत्र द्विविधो बस्तिः- नैरूहिकः, स्नैहिकश्च |
आस्थापनं, निरूह इत्यनर्थान्तरं; तस्य विकल्पो माधुतैलिकः; तस्य  पर्यायशब्दो यापनो, युक्तरथः, सिद्धबस्तिरिति |
स दोषनिर्हरणाच्छरीरनीरोहणाद्वा निरूहः,  वयःस्थापनादायुःस्थापनाद्वा आस्थापनम् |
माधुतैलिकविधानं च निरूहोपक्रमचिकित्सिते वक्ष्यामः |
यथाप्रमाणगुणविहितः स्नेहबस्तिविकल्पोऽनुवासनः पादाव(प)कृष्टः |
अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः |
तस्यापि विकल्पोऽर्धार्धमात्रावकृष्टोऽपरिहार्यो मात्राबस्तिरिति ||१८||

श्लोक 19

निरूहः शोधनो लेखी स्नैहिको बृंहणो मतः |१९|

श्लोक 19-20

निरूहशोधितान्मार्गान् सम्यक् स्नेहोऽनुगच्छति |
अपेतसर्वदोषासु नाडीष्विव वहज्जलम् ||१९||

सर्वदोषहरश्चासौ शरीरस्य च जीवनः |
तस्माद्विशुद्धदेहस्य स्नेहबस्तिर्विधीयते ||२०||

श्लोक 21

तत्रोन्मादभयशोकपिपासारोचकाजीर्णार्शःपाण्डुरोगभ्रममदमूर्च्छाच्छ-र्दिकुष्ठमेहोदरस्थौल्य-श्वासकासकण्ठशोषशोफोपसृष्टक्षतक्षीणचतुस्त्रिमासगर्भिणीदुर्ब-लाग्न्यसहा बालवृद्धौ च वातरोगादृते क्षीणा नानुवास्या नास्थापयितव्याः||२१||

श्लोक 22

उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः |
अवश्यं स्थापनीयास्ते नानुवास्याः कथञ्चन ||२२||

श्लोक 23

असाध्यता विकाराणां स्यादेषामनुवासनात् |
असाध्यत्वेऽपि भूयिष्ठं गात्राणां सदनं भवेत् ||२३||

श्लोक 24-25

पक्वाशये तथा श्रोण्यां नाभ्यधस्ताच्च सर्वतः |
सम्यक्प्रणिहितो बस्तिः स्थानेष्वेतेषु तिष्ठति ||२४||

पक्वाशयाद्बस्तिवीर्यं खैर्देहमनुसर्पति |
वृक्षमूले निषिक्तानामपां वीर्यमिव द्रुमम् ||२५||

श्लोक 26

स चापि सहसा बस्तिः केवलः समलोऽपि वा |
प्रत्येति वीर्यं त्वनिलैरपानाद्यैर्विनीयते ||२६||

श्लोक 27-28

वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्(न्) |
पक्वाशयस्थोऽम्बरगो भूमेरर्को रसानिव ||२७||

स कटीपृष्ठकोष्ठस्थान् वीर्येणालोड्य सञ्चयान् |
उत्खातमूलान् हरति दोषाणां साधुयोजितः ||२८||

श्लोक 29-31

दोषत्रयस्य यस्माच्च प्रकोपे वायुरीश्वरः |
तस्मात्तस्यातिवृद्धस्य शरीरमभिनिघ्नतः ||२९||

वायोर्विषहते वेगं नान्या बस्तेरृते क्रिया |
पवनाविद्धतोयस्य वेला वेगमिवोदधेः ||३०||

शरीरोपचयं वर्णं बलमारोग्यमायुषः |
कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ||३१||

श्लोक 32

अत ऊर्ध्वं व्यापदो वक्ष्यामः |
तत्र नेत्रं विचलितं, विवर्तितं, पार्श्वावपीडितम्, अत्युत्क्षिप्तम्, अवसन्नं,  तिर्यक्प्रक्षिप्तमिति षट् प्रणिधानदोषाः; अतिस्थूलं, कर्कशम्, अवनतं, अणुभिन्नं , सन्निकृष्टविप्रकृष्टकर्णिकं, सूक्ष्मातिच्छिद्रम्, अतिदीर्घम्,  अतिह्रस्वम् , अस्रिमदित्येकादश नेत्रदोषाः; बहलता, अल्पता,  सच्छिद्रता , प्रस्तीर्णता, दुर्बद्धतेति पञ्च बस्तिदोषाः; अतिपीडितता,  शिथिलपीडितता, भूयो भूयोऽवपीडनं, कालातिक्रम इति चत्वारः  पीडनदोषाः; आमता, हीनता, अतिमात्रता, अतिशीतता, अत्युष्णता,  अतितीक्ष्णता, अतिमृदुता, अतिस्निग्धता, अतिरूक्षता, अतिसान्द्रता,  अतिद्रवता, इत्येकादश द्रव्यदोषाः;  अवाक्शीर्षोच्छीर्षन्युब्जोत्तानसङ्कुचितदेहस्थितदक्षिणपार्श्वशायिनः  प्रदानमिति सप्त शय्यादोषाः; एवमेताश्चतुश्चत्वारिंशद्व्यापदो  वैद्यनिमित्ताः |
आतुरनिमित्ताः पञ्चदश आतुरोपद्रवचिकित्सिते वक्ष्यन्ते |
स्नेहस्त्वष्टभिः कारणैः प्रतिहतो न प्रत्यागच्छति त्रिभिर्दोषैः,  अशनाभिभूतो, मलव्यामिश्रो, दूरानुप्रविष्टो, अस्विन्नस्य, अनुष्णो,  अल्पम्भुक्तवतो, अल्पश्चेति वैद्यातुरनिमित्ता भवन्ति |
अयोगस्तूभयोः, आध्मानं, परिकर्तिका, परिस्रावः, प्रवाहिका,  हृदयोपसरणम्, अङ्गप्रग्रहो, अतियोगो, जीवादानमिति नव व्यापदो  वैद्यनिमित्ता भवन्ति ||३२||

श्लोक 33

भवति चात्र-
षट्सप्ततिः समासेन व्यापदः परिकीर्तिताः |
तासां वक्ष्यामि विज्ञानं सिद्धिं च तदनन्तरम् ||३३||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने  नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं नाम पञ्चत्रिंशोऽध्यायः ||३५||