प्रमेहपिडकाचिकित्सितम्

श्लोक 1-3

अथातः प्रमेहपिडकाचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

शराविकाद्या नव पिडकाः प्रागुक्ताः; ताः प्राणवतोऽल्पास्त्वङ्मांसप्राप्ता मृद्व्योऽल्परुजः क्षिप्रपाकभेदिन्यश्च साध्याः ||३||

श्लोक 4

ताभिरुपद्रुतं प्रमेहिणमुपचरेत् |
तत्र पूर्वरूपेष्वपतर्पणं वनस्पतिकषायं बस्तमूत्रं चोपदिशेत्;  एवमकुर्वतस्तस्य मधुराहारस्य मूत्रं स्वेदः श्लेष्मा च मधुरीभवति  प्रमेहश्चाभिव्यक्तो भवति, तत्रोभयतः संशोधनमासेवेत;  एवमकुर्वतस्तस्य दोषाः प्रवृद्धा मांसशोणिते प्रदूष्य शोफं  जनयन्त्युपद्रवान् वा कांश्चित्, तत्रोक्तः प्रतीकारः सिरामोक्षश्च;  एवमकुर्वतस्तस्य शोफो वृद्धोऽतिमात्रं रुजो विदाहमापद्यते, तत्र  शस्त्रप्रणिधानमुक्तं व्रणक्रियोपसेवा च; एवमकुर्वतस्तस्य  पूयोऽभ्यन्तरमवदार्योत्सङ्गं महान्तमवकाशं कृत्वा प्रवृद्धो भवत्यसाध्यः; तस्मादादित एव प्रमेहिणमुपक्रमेत् ||४||

श्लोक 5

भल्लातकबिल्वाम्बुपिप्पलीमूलोदकीर्यावर्षाभूपुनर्नवाचित्रकशटीस्नु-हीवरुणकपुष्करदन्तीपथ्या दशपलोन्मिता यवकोलकुलत्थांश्च  प्रास्थिकान् सलिलद्रोणे निष्क्वाथ्य चतुर्भागावशिष्टेऽवतार्य वचात्रि-वृत्कम्पिल्लकभार्ङ्गीनिचुलशुण्ठीगजपिप्पलीविडङ्गरोध्रशिरीषाणां  भागैरर्धपलिकैर्धृतप्रस्थं  विपाचयेन्मेहश्वयथुकुष्ठगुल्मोदरार्शःप्लीहविद्रधिपिडकानां नाशनं नाम्ना धान्वन्तरम् ||५||

श्लोक 6

दुर्विरेच्या हि मधुमेहिनो भवन्ति मेदोऽभिव्याप्तशरीरत्वात्,  तस्मात्तीक्ष्णमेतेषां शोधनं कुर्वीत |
पिडकापीडिताः सोपद्रवाः सर्व एव प्रमेहा मूत्रादिमाधुर्ये  मधुगन्धसामान्यात् पारिभाषिकीं मधुमेहाख्यां लभन्ते ||६||

श्लोक 7

न चैतान् कथञ्चिदपि स्वेदयेत्, मेदोबहुत्वादेतेषां विशीर्यते देहः  स्वेदेन ||७||

श्लोक 8

रसायनीनां च दौर्बल्यान्नोर्ध्वमुत्तिष्ठन्ति प्रमेहिणां दोषाः, ततो  मधुमेहिनामधःकाये पिडकाः प्रादुर्भवन्ति ||८||

श्लोक 9

अपक्वानां तु पिडकानां शोफवत् प्रतीकारः, पक्वानां व्रणवदिति; तैलं तु व्रणरोपणमेवादौ कुर्वीत, आरग्वधादिकषायमुत्सादनार्थे,  शालसारादिकषायं परिषेचने, पिप्पल्यादिकषायं पानभोजनेषु,  पाठाचित्रकशार्ङ्गेष्टाक्षुद्राबृहतीसारिवासोमवल्कसप्तपर्णारग्वधकु-टजमूलचूर्णानि मधुमिश्राणि प्राश्नीयात् ||९||

श्लोक 10

शालसारादिवर्गकषायं चतुर्भागावशिष्टमवतार्य परिस्राव्य पुनरुपनीय साधयेत्, सिध्यति  चामलकरोध्रप्रियङ्गुन्दन्तीकृष्णायस्ताम्रचूर्णान्यावपेत्, एतदनुपदग्धं  लेहीभूतमवतार्यानुगुप्तं निदध्यात्, ततो यथायोगमुपयुञ्जीत, एष लेहः  सर्वमेहानां हन्ता ||१०||

श्लोक 11

त्रिफलाचित्रकत्रिकटुकविडङ्गमुस्तानां नव भागास्तावन्त एव  कृष्णायश्चूर्णस्य, तत्सर्वमैकध्यं कृत्वा यथायोगं मात्रां सर्पिर्मधुभ्यां  संसृज्योपयुञ्जीत, एतन्नवायसम्; एतेन जाठर्यं न भवति,  सन्नोऽग्निराप्यायते,  दुर्नामशोफपाण्डुकुष्ठरोगाविपाककासश्वासप्रमेहाश्च न भवन्ति ||११||

श्लोक 12-19

शालसारादिनिर्यूहे चतुर्थांशावशेषिते |
परिस्रुते ततः शीते मधु माक्षिकमावपेत् ||१२||

फाणितीभावमापन्नं गुडं शोधितमेव च |
श्लक्ष्णपिष्टानि चूर्णानि पिप्पल्यादिगणस्य च ||१३||

ऐकध्यमावपेत् कुम्भे संस्कृते घृतभाविते |
पिप्पलीचूर्णमधुभिः प्रलिप्तेऽन्तःशुचौ दृढे ||१४||

श्लक्ष्णानि तीक्ष्णलोहस्य तत्र पत्राणि बुद्धिमान् |
खदिराङ्गारतप्तानि बहुशः सन्निपातयेत् ||१५||

सुपिधानं तु तं कृत्वा यवपल्ले निधापयेत् |
मासांस्त्रींश्चतुरोवाऽपि यावदालोहसङ्क्षयात् ||१६||

ततो जातरसं तं तु प्रातः प्रातर्यथाबलम् |
निषेवेत यथायोगमाहारं चास्य कल्पयेत् ||१७||

कार्श्यकृद्बलिनामेष सन्नस्याग्नेः प्रसाधकः |
शोफनुद्गुल्महृत् कुष्ठमेहपाण्ड्वामयापहः ||१८||

प्लीहोदरहरः शीघ्रं विषमज्वरनाशनः |
अभिष्यन्दापहरणो लोहारिष्टो महागुणः ||१९||

श्लोक 20

प्रमेहिणो यदा मूत्रमपिच्छिलमनाविलम् |
विशदं तिक्तकटुकं तदाऽऽरोग्यं प्रचक्षते ||२०||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने प्रमेहपिडकाचिकित्सितं नाम  द्वादशोऽध्यायः ||१२||