माषपर्णभृतीयो वाजीकरणपादः

श्लोक1-2

अथातो माषपर्णभृतीयं वाजीकरणपादं व्यख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

श्लोक 3-5

माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतुःस्तनीम्|
समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान्||३||

रोहिणीमथवा कृष्णामूर्ध्वशृङ्गीमदारुणाम्|
इक्ष्वादामर्जुनादां वा सान्द्रक्षीरां च धारयेत्||४||

केवलं तु पयस्तस्याः शृतं वाऽशृतमेव वा|
शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्वृष्यमुत्तमम्||५||

श्लोक 6-7

शुक्रलैर्जीवनीयैश्च बृंहणैर्बलवर्धनैः|
क्षीरसञ्जननैश्चैव पयः सिद्धं पृथक् पृथक्||६||

युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम्|
पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम्||७||

श्लोक 8-10

मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्|
श्वदंष्ट्रां क्षीरिकां माषान् गोधूमाञ्छालिषष्टिकान्||८||

पयस्यर्धोदके पक्त्वा कार्षिकानाढकोन्मिते|
विवर्जयेत् पयःशेषं तत् पूतं क्षौद्रसर्पिषा||९||

युक्तं सशर्करं पीत्वा वृद्धः सप्ततिकोऽपि वा|
विपुलं लभतेऽपत्यं युवेव च स हृष्यति||१०||

श्लोक 11

मण्डलैर्जातरूपस्य तस्या एव पयः शृतम्|
अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम्||११||

श्लोक 12-14

त्रिंशत् सुपिष्टाः पिप्पल्यः प्रकुञ्चे तैलसर्पिषोः|
भृष्टाः सशर्कराक्षौद्राः क्षीरधारावदोहिताः||१२||

पीत्वा यथाबलं चोर्ध्वं षष्टिकं क्षीरसर्पिषा|
भुक्त्वा न रात्रिमस्तब्धं लिङ्गं पश्यति ना क्षरत्||१३||

(इति वृष्यः पिप्पलीयोगः)|
श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे|
घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः||१४||
(इति वृष्यपायसयोगः)|

श्लोक 15-17

फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम्|
कुडवश्चूर्णितानां स्यात् स्वयङ्गुप्ताफलस्य च||१५||

कुडवश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयोः|
गोधूमशालिचूर्णानां कुडवः कुडवो भवेत्||१६||

सर्पिषः कुडवश्चैकस्तत् सर्वं क्षीरमर्दितम् |
पक्त्वा पूपलिकाः खादेद्बह्व्यः स्युर्यस्य योषितः||१७||
(इति वृष्यपूपलिकाः)|

श्लोक 18

घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत्|
शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुत्तमम्||१८||
(इति वृष्यं शतावरीघृतम्)|

श्लोक 19

कर्षं मधुकचूर्णस्य घृतक्षौद्रसमांशिकम् |
प्रयुङ्क्ते यः पयश्चानु नित्यवेगः स ना भवेत्||१९||
(इति वृष्यमधुकयोगः)|

श्लोक 20-25

घृतक्षीराशनो निर्भीर्निर्व्याधिर्नित्यगो युवा|
सङ्कल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते||२०||

कृतैककृत्याः सिद्धार्था ये चान्योऽन्यानुवर्तिनः|
कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये||२१||

कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः|
ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः||२२||

ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः|
तैर्नरः सह विस्रब्धः सुवयस्यैर्वृषायते||२३||

अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः|
गृहशय्यासनसुखैर्वासोभिरहतैः प्रियैः||२४||

विहङ्गानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः|
संवाहनैर्वरस्त्रीणामिष्टानां च वृषायते||२५||

श्लोक 26-28

मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः|
जात्युत्पलसुगन्धीनि शीतगर्भगृहणि च||२६||

नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः|
उन्नतिर्नीलमेघानां, रम्यचन्द्रोदया निशाः||२७||

वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः|
रतिभोगक्षमा रात्र्यः सङ्कोचागुरुवल्लभाः||२८||

श्लोक 29-31

सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः|
गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च||२९||

सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य|
वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम्||३०||

तत्र श्लोकः-
प्रहर्षयोनयो योगा व्याख्याता दश पञ्च च|
माषपर्णभृतीयेऽस्मिन् पादे शुक्रबलप्रदाः ||३१||

पुष्पिका

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये  माषपर्णभृतीयो नाम वाजीकरणपादस्तृतीयः||३||