वमनविरेचनसाध्योपद्रवचिकित्सितम्

श्लोक 1-2

अथातो वमनविरेचनसाध्योपद्रवचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

दोषाः क्षीणा बृंहयितव्याः, कुपिताः प्रशमयितव्याः, वृद्धा निर्हर्तव्याः,  समाः परिपाल्या इति सिद्धान्तः ||३||

श्लोक 4-5

प्राधान्येन वमनविरेचने वर्तेते निर्हरणे दोषाणाम् |
तस्मात्तयोर्विधानमुच्यमानमुपधारय ||४||

अथातुरं स्निग्धं स्विन्नमभिष्यन्दिभिराहारैरनवबद्धदोषमवलोक्य श्वो  वमनं पाययिताऽस्मीति सम्भोजयेत्तीक्ष्णाग्निं बलवन्तं बहुदोषं  महाव्याधिपरीतं वमनसात्म्यं च ||५||

श्लोक 6-7

भवति चात्र-
पेशलैर्विविधैरन्नैर्दोषानुत्क्लेश्य देहिनः |
स्निग्धस्विन्नाय वमनं दत्तं सम्यक् प्रवर्तते ||६||

अथापरेद्युः पूर्वाह्णे साधारणे काले  वमनद्रव्यकषायकल्कचूर्णस्नेहानामन्यतमस्य मात्रां पाययित्वा  वामयेद्यथायोगं कोष्ठविशेषमवेक्ष्य; असात्म्यबीभत्सदुर्गन्धदुर्दर्शनानि च वमनानि विदध्यात्, अतो विपरीतानि विरेचनानि; तत्र सुकुमारं कृशं  बालं वृद्धं भीरुं वा वमनसाध्येषु विकारेषु  क्षीरदधितक्रयवागूनामन्यतममाकण्ठं पाययेत्, पीतौषधं च  पाणिभिरग्नितप्तैः प्रताप्यमानं मुहूर्तमुपेक्षेत; तस्य च स्वेदप्रादुर्भावेण  शिथिलतामापन्नं स्वेभ्यः स्थानेभ्यः प्रचलितं कुक्षिमनुसृतं जानीयात्,  ततः प्रवृत्तहृल्लासं ज्ञात्वा जानुमात्रासनोपविष्टमाप्तैर्ललाटे पृष्ठे पार्श्वयोः कण्ठे च पाणिभिः सुपरिगृहीतमङ्गुलीगन्धर्वहस्तोत्पलनालानामन्य-तमेन कण्ठमभिस्पृशन्तं वामयेत्तावद्यावत् सम्यग्वान्तलिङ्गानीति ||७||

श्लोक 8

भवतश्चात्र-
कफप्रसेकं हृदयाविशुद्धिं कण्डूं च दुश्छर्दितलिङ्गमाहुः |
पित्तातियोगं च विसञ्ज्ञतां च हृत्कण्ठपीडामपि चातिवान्ते ||८||

श्लोक 9

पित्ते कफस्यानु सुखं प्रवृत्ते शुद्धेषु हृत्कण्ठशिरःसु चापि |
लघौ च देहे कफसंस्रवे च स्थिते सुवान्तं पुरुषं व्यवस्येत् ||९||

श्लोक 10

सम्यग्वान्तं चैनमभिसमीक्ष्य स्नेहनविरेचनशमनानां धूमानामन्यतमं  सामर्थ्यतः पाययित्वाऽऽचारिकमादिशेत् ||१०||

श्लोक 11

भवन्ति चात्र-
ततोऽपराह्णे शुचिशुद्धदेहमुष्णाभिरद्भिः परिषिक्तगात्रम् |
कुलत्थमुद्गाढकिजाङ्गलानां यूषै रसैर्वाऽप्युपभोजयेत्तु ||११||

श्लोक 12

कासोपलेपस्वरभेदनिद्रातन्द्रास्यदौर्गन्ध्यविषोपसर्गाः |
कफप्रसेकग्रहणीप्रदोषा न सन्ति जन्तोर्वमतः कदाचित् ||१२||

श्लोक 13

छिन्ने तरौ पुष्पफलप्ररोहा यथा विनाशं सहसा व्रजन्ति |
तथा हृते श्लेष्मणि शोधनेन तज्जा विकाराः प्रशमं प्रयान्ति ||१३||

श्लोक 14-15

न वामयेत्तैमिरिकोर्ध्ववातगुल्मोदरप्लीहकृमिश्रमार्तान् |
स्थूलक्षतक्षीणकृशातिवृद्धमूत्रातुरान् केवलवातरोगान् ||१४||

स्वरोपघाताध्ययनप्रसक्तदुश्छर्दिदुःकोष्ठतृडार्तबालान् |
ऊर्ध्वास्रपित्तिक्षुधितातिरूक्षगर्भिण्युदावर्तिनिरूहितांश्च ||१५||

श्लोक 16

अवम्यवमनाद्रोगाः कृच्छ्रतां यान्ति देहिनाम् |
असाध्यतां वा गच्छन्ति नैते वाम्यास्ततः स्मृताः ||१६||

श्लोक 17

एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः |
अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना ||१७||

श्लोक 18

वाम्यास्तु- विषशोषस्तन्यदोषमन्दाग्न्युन्मादापस्मारश्लीपदार्बुदविदारि-कामेदोमेहगरज्वरारुच्यपच्यामातीसारहृद्रोग-चित्तविभ्रमविसर्पविद्रध्यजीर्णमुखप्रसेकहृल्लासश्वासकासपीनसपू-तीनासकण्ठौष्ठवक्त्रपाक-कर्णस्रावाधिजिह्वोपजिह्विकागलशुण्डिकाधःशोणितपित्तिनः  कफस्थानजेषु विकारेष्वन्ये च कफव्याधिपरीता इति ||१८||

श्लोक 19

विरेचनमपि स्निग्धस्विन्नाय वान्ताय च देयम्; अवान्तस्य हि  सम्यग्विरीक्तस्यापि सतोऽधः स्रस्तः श्लेष्मा ग्रहणीं छादयति,  गौरवमापादयति, प्रवाहिकां वा जनयति ||१९||

श्लोक 20

अथातुरं श्वो विरेचनं पाययिताऽस्मीति पूर्वाह्णे लघु भोजयेत्,  फलाम्लमुष्णोदकं चैनमनुपाययेत् |
अथापरेऽहनि विगतश्लेष्मधातुमातुरोपक्रमणीयादवेक्ष्यातुरमथास्मै  औषधमात्रां पातुं प्रयच्छेत् ||२०||

श्लोक 21-22

तत्र मृदुः, क्रूरो, मध्यम इति त्रिविधः कोष्ठो भवति |
तत्र बहुपित्तो मृदुः, स दुग्धेनापि विरिच्यते; बहुवातश्लेष्मा क्रूरः, स  दुर्विरेच्यः; समदोषो मध्यमः, स साधारण इति |
तत्र मृदौ मात्रा मृद्वी, तीक्ष्णा क्रूरे, मध्ये मध्या कर्तव्येति |
पीतौषधश्च तन्मनाः शय्याभ्याशे विरेच्यते ||२१||

विरेचनं पीतवांस्तु न वेगान् धारयेद्बुधः |
निवातशायी शीताम्बु न स्पृशेन्न प्रवाहयेत् ||२२||

श्लोक 23

यथा च वमने प्रसेकौषधकफपित्तानिलाः क्रमेण गच्छन्ति, एवं विरेचने मूत्रपुरीषपित्तौषधकफा इति ||२३||

श्लोक 24

भवन्ति चात्र-
हृत्कुक्ष्यशुद्धिः परिदाहकण्डूविण्मूत्रसङ्गाश्च न सद्विरिक्ते |
मूर्च्छागुदभ्रंशकफातियोगाः शूलोद्गमश्चातिविरिक्तलिङ्गम् ||२४||

श्लोक 25

गतेषु दोषेषु कफान्वितेषु नाभ्या लघुत्वे मनसश्च तुष्टौ |
गतेऽनिले चाप्यनुलोमभावं सम्यग्विरिक्तं मनुजं व्यवस्येत् ||२५||

श्लोक 26

मन्दाग्निमक्षीणमसद्विरीक्तं न पाययेताहनि तत्र पेयाम् |
क्षीणं तृषार्तं सुविरेचितं च तन्वीं सुखोष्णां लघु पाययेच्च ||२६||

श्लोक 27

बुद्धेः प्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं बलमग्निदीप्तिम् |
चिराच्च पाकं वयसः करोति विरेचनं सम्यगुपास्यमानम् ||२७||

श्लोक 28

यथौदकानामुदकेऽपनीते चरस्थिराणां भवति प्रणाशः |
पित्ते हृते त्वेवमुपद्रवाणां पित्तात्मकानां भवति प्रणाशः ||२८||

श्लोक 29-31

मन्दाग्न्यतिस्नेहितबालवृद्धस्थूलाः क्षतक्षीणभयोपतप्ताः |
श्रान्तस्तृषार्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य चासृक् ||२९||

नवप्रविश्यायमदात्ययी च नवज्वरी या च नवप्रसृता |
शल्यार्दिताश्चाप्यविरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च ||३०||

अत्यर्थपित्ताभिपरीतदेहान् विरेचयेत्तानपि मन्दमन्दम् |३१|

श्लोक 31

विरेचनैर्यान्ति नरा विनाशमज्ञप्रयुक्तैरविरेचनीयाः ||३१||

श्लोक 32

विरेच्यास्तु- ज्वरगरारुच्यर्शोऽर्बुदोदरग्रन्थिविद्गाधिपाण्डुरोगापस्मार-हृद्रोगवातरक्तभगन्दरच्छर्दियोनिरोगविसर्प-गुल्मपक्वाशयरुग्विबन्धविसूचिकालसकमूत्राघातकुष्ठविस्फोटकप्रमे-हानाहप्लीहशोफवृद्धिशस्त्रक्षतक्षाराग्निदग्ध-दुष्टव्रणाक्षिपाककाचतिमिराभिष्यन्दशिरःकर्णाक्षिनासास्यगुदमेढ्र-दाहोर्ध्वरक्तपित्तकृमिकोष्ठिनः पित्तस्थानजेष्वन्येषु च विकारेष्वन्ये च  पैत्तिकव्याधिपरीता इति ||३२||

श्लोक 33

सरत्वसौक्ष्म्यतैक्ष्ण्यौष्ण्यविकाशित्वैर्विरेचनम् |
वमनं तु हरेद्दोषं प्रकृत्या गतमन्यथा ||३३||

श्लोक 34

यात्यधो दोषमादाय पच्यमानं विरेचनम् |
गुणोत्कर्षाद्व्रजत्यूर्ध्वमपक्वं वमनं पुनः ||३४||

श्लोक 35

मृदुकोष्ठस्य दीप्ताग्नेरतितीक्ष्णं विरेचनम् |
न सम्यङ्गिर्हरेद्दोषानतिवेगप्रधावितम् ||३५||

श्लोक 36

पीतं यदौषधं प्रातर्भुक्तपाकसमे क्षणे |
पक्तिं गच्छति दोषांश्च निर्हरेत्तत् प्रशस्यते ||३६||

श्लोक 37

दुर्बलस्य चलान् दोषानल्पानल्पान् पुनः पुनः |
हरेत् प्रभूतानल्पांस्तु शमयेत् प्रच्युतानपि ||३७||

श्लोक 38

हरेद्दोषांश्चलान् पक्वान् बलिनो दुर्बलस्य वा |
चला ह्युपेक्षिता दोषाः क्लेशयेयुश्चिरं नरम् ||३८||

श्लोक 39

मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः |
सन्धुक्षिताग्निं स्निग्धं च स्विन्नं चैव विरेचयेत् ||३९||

श्लोक 40

स्निग्धस्विन्नस्य भैषज्यैर्दोषस्तूत्क्लेशितो बलात् |
निलीयते न मार्गेषु स्निग्धे भाण्ड इवोदकम् ||४०||

श्लोक 41

न चातिस्नेहपीतस्तु पिबेत् स्नेहविरेचनम् |
दोषाः प्रचलिताः स्थानाद्भूयः श्लिष्यन्ति वर्त्मसु ||४१||

श्लोक 42

विषाभिघातपिडकाशोफपाण्डुविसर्पिणः |
नातिस्निग्धा विशोध्याः स्युस्तथा कुष्ठिप्रमेहिणः ||४२||

श्लोक 43

विरूक्ष्य स्नेहसात्म्यं तु भूयः संस्नेह्य शोधयेत् |
तेन दोषा हृतास्तस्य भवन्ति बलवर्धनाः ||४३||

श्लोक 44

प्रागपीतं नरं शोध्यं पाययेतौषधं मृदु |
ततो विज्ञातकोष्ठस्य कार्यं संशोधनं पुनः ||४४||

श्लोक 45

सुखं दृष्टफलं हृद्यमल्पमात्रं महागुणम् |
व्यापत्स्वल्पात्ययं चापि पिबेन्नृपतिरौषधम् ||४५||

श्लोक 46

स्नेहस्वेदावनभ्यस्य यस्तु संशोधनं पिबेत् |
दारु शुष्कमिवानामे देहस्तस्य विशीर्यते ||४६||

श्लोक 47

स्नेहस्वेदप्रचलिता रसैः स्निग्धैरुदीरिताः |
दोषाः कोष्ठगता जन्तोः सुखा हर्तुं विशोधनैः ||४७||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने  वमनविरेचनसाध्योपद्रवचिकित्सितं नाम त्रयस्त्रिंशोऽध्यायः ||३३||