वमनद्रव्यविकल्पविज्ञानीयाध्यायः

श्लोक 1-2

अथातो वमनद्रव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3

वमनद्रव्याणां फलादीनां मदनफलानि श्रेष्ठतमानि भवन्ति |
अथ मदनपुष्पाणामातपपरिशुष्काणां चूर्णप्रकुञ्जं  प्रत्यक्पुष्पासदापुष्पीनिम्बकषायाणामन्यतमेनालोड्य मधुसैन्धवयुक्तां  पुष्पचूर्णमात्रां पाययित्वा वामयेत् |
मदनशलाटुचूर्णान्येवं वा बकुलरम्यकोपयुक्तानि मधुलवणयुक्तान्यभिप्रतप्तानि; मदनशलाटुचूर्णसिद्धां वा तिलतण्डुलयवागूम् |
निर्वृत्तानां वा नातिहरितपाण्डूनां कुशमूढावबद्धमृद्गोमयप्रलिप्तानां  यवबु(तु)षमुद्गमाषशाल्यादिधान्यराशावष्टरात्रोषितक्लिन्नभिन्नानां फलानां  फलपिप्पलीरुद्धृत्यातपे शोषयेत्, तासां  दधिमधुपललविमृदितपरिशुष्काणां सुभाजनस्थानामन्तर्नखमुष्टिमुष्णे  यष्टीमधुककषाये कोविदारादीनामन्यतमे वा कषाये प्रमृद्य रात्रिपर्युषितं  मधुसैन्धवयुक्तमाशीर्भिरभिमन्त्रितमुदङ्मुखः  प्राङ्मुखमातुरं पाययेदनेन मन्त्रेणाभिमन्त्र्य-
“ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानलानिलाः|
ऋषयः सौषधीग्रामा भूतसङ्घाश्च पान्तु ते ||१||
रसायनमिवर्षीणां देवानाममृतं यथा |
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ||२||
विशेषेण श्लेष्मज्वरप्रतिश्यायान्तर्विद्रधिषु; अप्रवर्तमाने वा दोषे  पिप्पलीवचागौरसर्षपकल्कोन्मिश्रैः सलवणैरुष्णाम्बुभिः पुनः पुनः  प्रवर्तयेदासम्यग्वान्तलक्षणादिति |
मदनफलमज्जचूर्णं वा तत्क्वाथपरिभावितं मदनफलकषायेण;  मदनफलमज्जसिद्धस्य वा पयसः सन्तानिकां क्षौद्रयुक्तां ,  मदनफलमज्जसिद्धं वा पयः, मदनफलमज्जसिद्धेन वा पयसा यवागूम्,  अधोभागासृक्पित्तहृद्दाहयोः; मदनफलमज्जसिद्धस्य वा पयसो  दधिभावमुपगतस्य दध्युत्तरं दधि वा कफप्रसेकच्छर्दिमूर्च्छातमकेषु;  मदनफलमज्जरसं स्नेहं वा भल्लातकस्नेहवदादाय फाणितीभूतं लेहयेत्,  आतपपरिशुष्कं वा तमेव जीवन्तीकषायेण, पित्ते कफस्थानगते;  मदनफलमज्जक्वाथं वा पिप्पल्यादिप्रतीवापं, तच्चूर्णं वा  निम्बरूपिकाकषाययोरन्यतरेण सन्तर्पणकफजव्याधिहरं,  मदनफलमज्जचूर्णं वा मधूककाश्मर्यद्राक्षाकषायेण |
मदनफलविधानमुक्तम् ||३||

श्लोक 4

जीमूतककुसुमचूर्णं पूर्ववदेव क्षीरेण, निर्वृत्तेषु क्षीरयवागूं, रोमशेषु  सन्तानिकां, अरोमशेषु दध्युत्तरं, हरितपाण्डुषु दधि, तत्कषायसंसृष्टां वा  सुरां कफारोचककासश्वासपाण्डुरोगयक्ष्मसु; पर्यागतेषु  मदनफलमज्जवदुपयोगः ||४||

श्लोक 5

तद्वदेव कुटजफलविधानम् ||५||

श्लोक 6

कृतवेधनानामप्येष एव कल्पः ||६||

श्लोक 7

इक्ष्वाकुकुसुमचूर्णं वा पूर्ववत्, एवं क्षीरेण, कासश्वासच्छर्दिकफरोगेषूपयोगः ||७||

श्लोक 8

धामार्गवस्यापि मदनफलमज्जवदुपयोगः; विशेषतस्तु  गरगुल्मोदरकासश्वासश्लेष्मामयेषु वायौ च कफस्थानगते ||८||

श्लोक 9

कृतवेधनफलपिप्पलीनां वमनद्रव्यकषायपरिपीतानां  बहुशश्चूर्णमुत्पलादिषुदत्तमाघ्रातं वामयति, तत्त्वनवबद्धदोषेषु  यवागूमाकण्ठात्पीतवत्सु च विदध्यात् |
वमनविरेचनशिरोविरोचनद्रव्याण्येवं वा प्रधानतमानि भवन्ति ||९||

श्लोक 10-11

भवतश्चात्र-
वमनद्रव्ययोगाणां दिगियं सम्प्रकीर्तिता |
तान् विभज्य यथाव्याधि कालशक्तिविनिश्चयात् ||१०||

कषायैः स्वरसैः कल्कैश्चूर्णैरपि च बुद्धिमान् |
पेयलेह्याद्यभोज्येषु वमनान्युपकल्पयेत् ||११||

पुष्पिका

इति सुश्रुतसंहितायां सूत्रस्थाने वमनद्रव्यविकल्पविज्ञानीयो नाम  त्रिचत्वारिंशत्तमोऽध्यायः ||४३||