सर्वोपघातशमनीयरसायनम्

श्लोक 1-2

अथातः सर्वोपघातशमनीयं रसायनं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्लोक 3-5

पूर्वे वयसि मध्ये वा मनुष्यस्य रसायनम् |
प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा ||३||

नाविशुद्धशरीरस्य युक्तो रासायनो विधिः |
न भाति वाससि क्लिष्टे रङ्गयोग इवाहितः ||४||

शरीरस्योपघाता ये दोषजा मानसास्तथा |
उपदिष्टाः प्रदेशेषु तेषां वक्ष्यामि वारणम् ||५||

श्लोक 6

शीतोदकं पयः क्षौद्रं सर्पिरित्येकशो द्विशः |
त्रिशः समस्तमथवा प्राक् पीतं स्थापयेद्वयः ||६||

श्लोक 7

तत्र विडङ्गतण्डुलचूर्णमाहृत्य यष्टीमधुकमधुयुक्तं यथाबलं  शीततोयेनोपयुञ्जीत शीततोयं चानुपिबेदेवमहरहर्मासं, तदेव मधुयुक्तं भल्लातकक्वाथेन वा, मधुद्राक्षाक्वाथयुक्तं वा, मध्वामलकरसाभ्यां वा,  गुडूचीक्वाथेन वा, एवमेते पञ्च प्रयोगा भवन्ति; जीर्णे  मुद्गामलकयूषेणालवणेनाल्पस्नेहेन घृतवन्तमोदनमश्नीयात्; एते  खल्वर्शांसि क्षपयन्ति, कृमीनुपघ्नन्ति, ग्रहणधारणशक्तिं जनयन्ति,  मासे मासे च प्रयोगे वर्षशतं वर्षशतमायुषोऽभिवृद्धिर्भवति ||७||

श्लोक 8-10

विडङ्गतण्डुलानां द्रोणं पिष्टपचने पिष्टवदुपस्वेद्य विगतकषायं  स्विन्नमवतार्य दृषदि पिष्टमायसे दृढे कुम्भे मधूदकोत्तरं प्रावृषि  भस्मराशावन्तर्गृहे चतुरो मासान्निदध्यात्, वर्षाविगमे  चोद्धृत्योपसंस्कृतशरीरः सहस्रसम्पाताभिहुतं कृत्वा प्रातः-प्रातर्यथाबलमुपयुञ्जीत, जीर्णे मुद्गामलकयूषेणालवणेन  घृतवन्तमोदनमश्नीयात्, पांशुशय्यायां शयीत, तस्य मासादूर्ध्वं  सर्वाङ्गेभ्यः कृमयो निष्क्रामन्ति, तानणुतैलेनाभ्यक्तस्य  वंशविदलेनापहरेत्, द्वितीये पिपीलिकास्तृतीये यूकास्तथैवापहरेत्,  चतुर्थे दन्तनखरोमाण्यवशीर्यन्ते; पञ्चमे प्रशस्तगुणलक्षणानि जायन्ते,  अमानुषं चादित्यप्रकाशं वपुरधिगच्छति, दूराच्छ्रवणानि दर्शना निचास्यभवन्ति, रजस्तमसी चापोह्य सत्त्वमधितिष्ठति, श्रुतनिगाद्यपूर्वोत्पादी  गजबलोऽश्वजवः पुनर्युवाऽष्टौ वर्षशतान्यायुरवाप्नोति;  तस्याणुतैलमभ्यङ्गार्थे, अजकर्णकषायमुत्सादनार्थे, सोशीरं कूपोदकं  स्नानार्थे, चन्दनमुपलेपनार्थे, भल्लातकविधानवदाहारः परिहारश्च ||८||

काश्मर्याणां निष्कुलीकृतानामेष एव कल्पः पांशुशय्याभोजनवर्जं;  अत्र हि पयसा शृतेन भोक्तव्यं, समानमन्यत् पूर्वेणाशिषश्च |
शोणितपित्तनिमित्तेषु विकारेष्वेतेषामुपयोगः ||९||

यथोक्तमागारं प्रविश्य बलामूलार्धपलं पलं वा पयसाऽऽलोड्य पिबेत्, जीर्णे पयः सर्पिरोदन इत्याहारः, एवं द्वादशरात्रमुपयुज्य द्वादश  वर्षाणि वयस्तिष्ठति; एवं दिवसशतमुपयुज्य वर्षशतं वयस्तिष्ठति |
एवमेवातिबलानागबलाविदारीशतावरीणामुपयोगः |
विशेषतस्त्वतिबलामुदकेन, नागबलाचूर्णं मधुना, विदारीचूर्णं क्षीरेण,  शतावरीमप्येवं, पूर्वेणान्यत् समानमाशिषश्च समाः |
एतास्त्वौषधयो बलकामानां शोषिणां रक्तपित्तोपसृष्टानां शोणितं  छर्दयतां विरिच्यमानानां चोपदिश्यन्ते ||१०||

श्लोक 11

वाराहीमूलतुलाचूर्णं कृत्वा ततो मात्रां मधुयुक्तां पयसाऽऽलोड्य पिबेत्, जीर्णे पयः सर्पिरोदन इत्याहारः, प्रतिषेधोऽत्र पूर्ववत् ;  प्रयोगमिममुपसेवमानो वर्षशतमायुरवाप्नोति स्त्रीषु चाक्षयताम्,  एतेनैव चूर्णेन पयोऽवचूर्ण्य शृतशीतमभिमथ्याज्यमुत्पाद्य  मधुयुतमुपयुञ्जीत सायम्प्रातरेककालं वा, जीर्णे पयः सर्पिरोदन  इत्याहारः, एवं मासमुपयुज्य वर्षशतायुर्भवति ||११||

श्लोक 12-13

चक्षुःकामः प्राणकामो वा बीजकसाराग्निमन्थमूलं निष्क्वाथ्य माषप्रस्थं साधयेत्, तस्मिन् सिध्यति चित्रकमूलानामक्षमात्रं कल्कं  दद्यादामलकरसचतुर्थभागं, ततः स्विन्नमवतार्य सहस्रसम्पाताभिहुतं  कृत्वा शीतीभूतं मधुसर्पिर्भ्यां संसृज्योपयुञ्जीत यथाबलं, यथासात्म्यं च  लवणं परिहरन् भक्षयेत् |
जीर्णे मुद्गामलकयूषेणालवणेन घृतवन्तमोदनमश्नीयात् पयसा वा  मासत्रयम्; एवमाभ्यां प्रयोगाभ्यां चक्षुः सौपर्णं भवत्यनल्पबलः स्त्रीषु  चाक्षयो वर्षशतायुर्भवतीति ||१२||

भवति चात्र-
पयसा सह सिद्धानि नरः शणफलानि यः |
भक्षयेत् पयसा सार्धं वयस्तस्य न शीर्यते ||१३||

पुष्पिका

इति सुश्रुतसंहितायां चिकित्सास्थाने सर्वोपघातशमनीयं  रसायनचिकित्सितं नाम सप्तविंशोऽध्यायः ||२७||